श्रीरघुनाथाष्टकम् लिरिक्स | Shri Raghunath Kashtkam - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरघुनाथाष्टकम् लिरिक्स | Shri Raghunath Kashtkam

 

श्रीरघुनाथाष्टकम् लिरिक्स | Shri Raghunath Kashtkam

॥ श्रीरघुनाथाष्टकम् ॥

 

श्री गणेशाय नमः ।

 

शुनासीराधीशैरवनितलज्ञप्तीडितगुणं

प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् ।

सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे

ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥

 

निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे

पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् ।

विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं

ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥

 

गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं

ससौमित्रिं त्यक्‍त्वेप्सितमपि सुराणां नृपसुखम् ।

विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं

ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ३॥

 

विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं

गतं पम्पातीरे पवनसुतसम्मेलनसुखम् ।

गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं

ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ४॥

 

प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं

जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् ।

विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं

ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ५॥

 

विमानं चारुह्याऽनुजजनकजासेवितपद

मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् ।

सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तमनसं

ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ६॥

 

प्रजां संस्थातारं विहितनिजधर्मे श्रुतिपथं

सदाचारं वेदोदितमपि च कर्तारमखिलम् ।

नृषु प्रेमोद्रेकं निखिलमनुजानां हितकरं

सतीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ७॥

 

तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यन्ति

ज्ञात्वा जगति खलु गन्तारमजनम् ॥

 

अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं

ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ८॥

 

रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम् ।

पठतां पापराशिघ्नं भुक्‍तिमुक्‍तिप्रदायकम् ॥ ९॥

 

॥ इति पण्डित श्रीशिवदत्तमिश्रशास्त्रि विरचितं श्रीरघुनाथाष्टकं सम्पूर्णम् ॥