॥ एकश्लोकि रामायणम् ॥ आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् । वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम् ॥ ॥ एकश्लोकि रामायणं सम्पूर्णम् ॥