श्रीरामचन्द्राष्टकम् लिरिक्स | Shri Ram Chandraastham - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरामचन्द्राष्टकम् लिरिक्स | Shri Ram Chandraastham

 

श्रीरामचन्द्राष्टकम् लिरिक्स | Shri Ram Chandraastham

॥ श्रीरामचन्द्राष्टकम् ॥

 

ॐ चिदाकारो धाता परमसुखदः पावनतनुर्-

मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता ।

सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरू

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १॥

 

मुकुन्दो गोविन्दो जनकतनयालालितपदः

पदं प्राप्ता यस्याधमकुलभवा चापि शबरी ।

गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ २॥

 

धराधीशोऽधीशः सुरनरवराणां रघुपतिः

किरीटी केयूरी कनककपिशः शोभितवपुः ।

समासीनः पीठे रविशतनिभे शान्तमनसो

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ३॥

 

वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो

ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः ।

नराकारो रामो यतिपतिनुतः संसृतिहरो

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ४॥

 

विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं

सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै ।

स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ५॥

 

परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः

परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः ।

अहल्याशापघ्नः शरकरऋजुःकौशिकसखो

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ६॥

 

हृषीकेशः शौरिर्धरणिधरशायी मधुरिपुर्-

उपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा ।

बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ७॥

 

कविः सौमित्रीड्यः कपटमृगघाती वनचरो

रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः ।

अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो

रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ ८॥

 

इदं रामस्तोत्रं वरममरदासेन रचितम्

उषःकाले भक्‍त्या यदि पठति यो भावसहितम् ।

मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं

परित्यज्य श्रीष्ठं रघुपतिपदं याति शिवदम् ॥ ९॥

॥ इति श्रीमद्रामदासपूज्यपादशिष्यश्रीमद्धं सदासशिष्येणामरदासाख्यकविना विरचितं

श्रीरामचन्द्राष्टकं समाप्तम् ॥