श्रीरामस्तवराजः सनत्कुमारसंहितायाम् | Shri Ram Svatraaj - Daily Hindi Paper | Online GK in Hindi | Civil Services Notes in Hindi

Breaking

मंगलवार, 22 जून 2021

श्रीरामस्तवराजः सनत्कुमारसंहितायाम् | Shri Ram Svatraaj

श्रीरामस्तवराजः सनत्कुमारसंहितायाम् | Shri Ram Svatraaj

 

॥ श्रीरामस्तवराजः सनत्कुमारसंहितायाम् ॥

 

अस्य श्रीरामचन्द्रस्तवराजस्तोत्रमन्त्रस्य सनत्कुमारऋषिः ।

श्रीरामो देवता । अनुष्टुप् छन्दः । सीता बीजम् । हनुमान् शक्तिः ।

श्रीरामप्रीत्यर्थे जपे विनियोगः ॥

 

सूत उवाच ।

सर्वशास्त्रार्थत्त्वज्ञं व्यासं सत्यवतीसुतम् ।

धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥ १॥

 

युधिष्ठिर उवाच ।

भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद ।

किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनम् ॥ २॥

 

श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ।

वेदव्यास उवाच ।

धर्मराज महाभाग शृणु वक्ष्यामि तत्त्वतः ॥ ३॥

 

यत्परं यद्गुणातीतं यज्ज्योतिरमलं शिवम् ।

तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥ ४॥

 

श्रीरामेति परं जाप्यं तारकं ब्रह्मसञ्ज्ञकम् ।

ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥ ५॥

 

श्रीराम रामेति जना ये जपन्ति च सर्वदा ।

तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥ ६॥

 

स्तवराजं पुरा प्रोक्तं नारदेन च धीमता ।

तत्सर्वं सम्प्रवक्ष्यामि हरिध्यानपुरःसरम् ॥ ७॥

 

तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनम् ।

दारिद्र्यदुःखशमनं सर्वसम्पत्करं शिवम् ॥ ८॥

 

विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् ।

नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ ९॥

 

अयोध्यानगरे रम्ये रत्नमण्डपमध्यगे ।

स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥ १०॥

 

तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितम् ।

स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम् ॥ ११॥

 

पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम् ।

कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम् ॥ १२॥

 

भानुकोटिप्रतीकाशं किरीटेन विराजितम् ।

रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम् ॥ १३॥

 

रत्नकङ्कणमञ्जीरकटिसूत्रैरलङ्कृतम् ।

श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १४॥

 

दिव्यरत्नसमायुक्तमुद्रिकाभिलङ्कृतम् ।

राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥ १५॥

 

तुलसीकुन्दमन्दारपुष्पमाल्यैरलङ्कृतम् ।

कर्पूरागरुकस्तूरीदिव्यगन्धानुलेपनम् ॥ १६॥

 

योगशास्त्रेष्वभिरतं योगेशं योगदायकम् ।

सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥ १७॥

 

विद्याधरसुराधीशसिद्धगन्धर्वकिन्नरैः ।

योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम् ॥ १८॥

 

विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम् ।

सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥ १९॥

 

रामं रघुवरं वीरं धनुर्वेदविशारदम् ।

मङ्गलायतनं देवं रामं राजीवलोचनम् ॥ २०॥

 

सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम् ।

कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम् ॥ २१॥

 

एवं सञ्चिन्तयन्विष्णुं यज्ज्योतिरमलं विभुम् ।

प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥ २२॥

 

सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम् ।

कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम् ॥ २३॥

 

यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम् ।

यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥ २४॥

 

विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम् ।

श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ २५॥

 

कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम् ।

अणोरणीयांसमनन्तवीर्यं प्राणेश्वरं राममसौददर्श ॥ २६॥

 

नारद उवाच ।

नारायणं जगन्नाथमभिरामं जगत्पतिम् ।

कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २७॥

 

राजराजं रघुवरं कौसल्यानन्दवर्धनम् ।

भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम् ॥ २८॥

 

सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम् ।

सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ २९॥

 

आदित्यं रविमीशानं घृणिं सूर्यमनामयम् ।

आनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥ ३०॥

 

जामदग्न्यं तपोमूर्तिं रामं परशुधारिणम् ।

वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३१॥

 

श्रीशार्ड़गधारिणं रामं चिन्मयानन्दविग्रहम् ।

हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३२॥

 

श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् ।

मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३३॥

 

वासुदेवं जगद्योनिमनादिनिधनं हरिम् ।

गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३४॥

 

गोगोपालपरीवारं गोपकन्यासमावृतम् ।

विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ ३५॥

 

गोगोपिकासमाकीर्णं वेणुवादनतत्परम् ।

कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥ ३६॥

 

मन्मथं मथुरानाथं माधवं मकरध्वजम् ।

श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ ३७॥

 

भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणम् ।

सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥ ३८॥

 

श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसम् ।

चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ ३९॥

 

आदित्यमण्डलगतं निश्चितार्थस्वरूपिणम् ।

भक्तप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम् ॥ ४०॥

 

कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियम् ।

सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥ ४१॥

 

विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतम् ।

यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४२॥

 

सत्यसन्धं जितक्रोधं शरणागतवत्सलम् ।

सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥ ४३॥

 

दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् ।

वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४४॥

 

नरवानरदेवैश्चसेवितं हनुमत्प्रियम् ।

शुद्धं सूक्ष्मं परं शान्तं तारकाब्रह्मरूपिणम् ॥ ४५॥

 

सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् ।

सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४६॥

 

निरामयं निराभासं निरवध्यं निरञ्जनम् ।

नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४७॥

 

परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् ।

मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४८॥

 

सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितम् ।

नमामि पुण्डरीकाक्षममेयं गुरुतत्परम् ॥ ४९॥

 

नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः ।

नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥ ५०॥

 

नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने ।

मायामयनिरासाय प्रपन्नजनसेविने ॥ ५१॥

 

वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।

जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥ ५२॥

 

उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते

कामाय प्रमदामनोहरगुणग्रामाय रामात्मने ।

योगारूढमुनीन्द्रमानससरोहंसाय संसारविध्वंसाय

स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ५३॥

 

भवोद्भवं वेदविदां वरिष्ठमादित्यचन्द्रानलसुप्रभावम् ।

सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात् ॥ ५४॥

 

निरञ्जनं निःष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपञ्चम् ।

नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि ॥ ५५॥

 

भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपम् ।

भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥ ५६॥

 

सर्वाधिपत्यं समराङ्गधीरं सत्यं चिदानन्दमयस्वरूपम् ।

सत्यं शिवं शान्तिमयं शरण्यं सनातनं राममहं भजामि ॥ ५७॥

 

कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षम् ।

कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥ ५८॥

 

त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुम् ।

महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि ॥ ५९॥

 

वेदान्तवेद्यं कविमीशितारमनादिमध्यान्तमचिन्त्यमाद्यम् ।

अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥ ६०॥

 

अशेषवेदात्मकमादिसञ्ज्ञमजं हरिं विष्णुमनन्तमाद्यम् ।

अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥ ६१॥

 

तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् ।

राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ॥ ६२॥

 

लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुन्दम् ।

अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥ ६३॥

 

योगीन्द्रसङ्घैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम् ।

नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥ ६४॥

 

विभूतिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथम् ।

अचिन्त्यमव्यक्तमनन्तमूर्तिं ज्योतिर्मयं राममहं भजामि ॥ ६५॥

 

अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् ।

समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ६६॥

 

मुनीन्द्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुम् ।

परात्परं यत्परमं पवित्रं नमामि रामं महतो महान्तम् ॥ ६७॥

 

ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा ।

आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥ ६८॥

 

तापसा ऋषयः सिद्धाः साध्याश्च मरुतस्तथा ।

विप्रा वेदास्तथा यज्ञाः पुराणधर्मसंहिताः ॥ ६९॥

 

वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च ।

यक्षराक्षसगन्धर्वादिक्पाला दिग्गजादयः ॥ ७०॥

 

सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव ।

वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ॥ ७१॥

 

तारका दश दिक् चैव त्वमेव रघुनन्दन ।

सप्तद्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥ ७२॥

 

स्थावरा जङ्गमाश्चैव त्वमेव रघुनायक ।

देवतिर्यड़मनुष्याणां दानवानां तथैव च ॥ ७३॥

 

माता पिता तथा भ्राता त्वमेव रघुवल्लभ ।

सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ ७४॥

 

त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम ।

त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किञ्चन ॥ ७५॥

 

शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ।

राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ ७६॥

 

व्यास उवाच ।

ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम् ।

तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥ ७७॥

 

नारद उवाच ।

यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे ।

त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥ ७८॥

 

धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम ।

अद्य मे सफलं जन्म जीवितं सफलं च मे ॥ ७९॥

 

अद्य मे सफलं ज्ञानमद्य मे सफलं तपः ।

अद्य मे सफलं कर्म त्वत्पादाम्भोजदर्शनात् ।

अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा ॥ ८०॥

 

त्वत्पादाम्भोरुहद्वन्द्वसद्भक्तिं देहि राघव ।

ततः परमसम्प्रीतः स रामः प्राह नारदम् ॥ ८१॥

 

श्रीराम उवाच ।

मुनिवर्य महाभाग मुनेत्विष्टं ददामि ते ।

यत्त्वया चेप्सितं सर्व मनसा तद्भविष्यति ॥ ८२॥

 

नारद उवाच ।

वरं न याचे रघुनाथ युष्मत्पदाब्जभक्तिः सततं ममास्तु ।

इदं प्रियं नाथ वरं हि याचे पुनःपुनस्त्वामिदमेव याचे ॥ ८३॥

 

व्यास उवाच ।

इत्येवमीडितो रामः प्रादात्तस्मै वरान्तरम् ।

वीरो रामो महातेजाः सच्चिदानन्दविग्रहः ॥ ८४॥

 

अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा ।

अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥ ८५॥

 

इति श्रीरघुनाथस्य स्तवराजमनुत्तमम् ।

सर्वसौभाग्यसम्पत्तिदायकं मुक्तिदं शुभम् ॥ ८६॥

 

कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम् ।

गुह्याद्गुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम् ॥ ८७॥

 

यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ।

ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ ८८॥

 

स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा ।

गोवधाद्युपपापानि अनृतात्सम्भवानि च ॥ ८९॥

 

सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः ।

मानसं वाचिकं पापं कर्मणा समुपार्जितम् ॥ ९०॥

 

श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् ।

इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ ९१॥

 

रामं सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते ।

तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ ९२॥

 

श्रीरामचन्द्र रघुपुङ्गव राजवर्य

रजेन्द्र राम रघुनायक राघवेश ।

राजाधिराज रघुनन्दन रामचन्द्र

दासोऽहमद्यभवतः शरणागतोऽस्मि ॥ ९३॥

 

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये

पुष्पकृतासने मणिमये वीरासने संस्थितम् ।

अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं

व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ९४॥

 

रामं रत्नकिरीटकुण्डलयुतं केयूरहारान्वितं

सीतालङ्कृतवामभागममलं सिंहासनस्थं विभुम् ।

सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा

विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥ ९५॥

 

सकलगुणनिधानं योगिभिः स्तूयमानं

भुजविजितसमानं राक्षसेन्द्रादिमानम् ।

महितनृपभयानं सीताया शोभमानं

स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥ ९६॥

 

रघुवर तव मूर्तिर्मामके मानसाब्जे

नरकगतिहरं ते नामधेयं मुखे मे ।

अनिशमतुलभक्त्या मस्तकं त्वत्पादाब्जे

भवजलनिधिमग्नं रक्षमामार्तबन्धो ॥ ९७॥

 

रामरत्नमहं वन्दे चित्रकूटपतिं हरिम् ।

कौसल्याभक्तिसम्भूतं जानकीकण्ठभूषणम् ॥ ९८॥

 

इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामस्तवराजस्तोत्रं सम्पूर्णम् ॥